Jain Siddhant Deepika (Text and Audio): Chapter 6: Shashthah Prakash

Published: 08.03.2023

षष्ठः प्रकाशः

  1. सम्यग्दर्शन - ज्ञान-चारित्र-तपांसि मोक्षमार्गः ।
  2. यथार्थदृष्टिः सम्यग्दर्शनम् ।
  3. यथार्थबोधः सम्यग्ज्ञानम् ।
  4. महाव्रतादीनामाचरणं सम्यक्चारित्रम् ।
  5. सामायिक-छेदोपस्थाप्य-परिहारविशुद्धि सूक्ष्मसंपराय-यथाख्यातानि ।
  6. अहिंसा सत्यमस्तेयं ब्रह्मचर्यमपरिग्रहश्च महाव्रतम् ।
  7. प्राणानामनतिपातः सर्वभूतेषु संयमः अप्रमादो वा अहिंसा ।
  8. सद्भावोद्भावनं सत्यम् ।
  9. अदत्ताग्रहणम् अस्तेयम् ।
  10. इन्द्रियमन:संयमो ब्रह्मचर्यम् ।
  11. ममत्वविसर्जनम् अपरिग्रहः ।
  12. ईर्या-भाषा- एषणा आदाननिक्षेप उत्सर्गा; समितिः ।
  13. युगमात्रभूमिं चक्षुषा प्रेक्ष्य गमनं ईर्या ।
  14. अनवद्यभाषणं भाषा ।
  15. निर्दोषान्नपानादेरन्वेषणम् एषणा ।
  16. उपध्यादेः सयत्नं व्यापरणम् आदाननिक्षेपः ।
  17. उच्चारादे: सविधि परिष्ठापनम् उत्सर्गः ।
  18. मनोवावकायसंवरो गुप्तिः ।
  19. मनःस्थैर्याय अनित्याद्यर्थानुप्रेक्षणं अनुप्रेक्षा ।
  20. पुन: पुनरासेवनमध्यासो वा भावना ।
  21. अनित्य अशरण-भव-एकत्व- अन्यत्व-अशौच-आश्रव-संवर-निर्जरा-धर्म-लोक-बोधिदुर्लभताश्च ।
  22. देशतश्चाणुव्रतशिक्षाव्रते ।
  23. स्थूलहिंसा मृषा-स्तेयाऽब्रह्मविरतिः इच्छापरिमाणं च अणुव्रतम् ।
  24. दिगुपभोगपरिभोग- अनर्थदण्डविरति-सामायिक-देशावकाशिक पौषधोपवास- यथासंविभागाः शिक्षाव्रतम् ।
  25. दर्शन-व्रत- सामायिक-पौषध-कायोत्सर्ग- ब्रह्म-सचित्ता-रम्भप्रेष्योद्दिष्टवर्जन-श्रमणभूताश्च प्रतिमाः ।
  26. मारणान्तिकी संलेखना ।
  27. परिग्रहविसर्जन-प्रव्रज्या भक्तपानप्रत्याख्यानविषये पर्यालोचनं महानिर्जराहेतु ।
  28. इन्द्रियमनोनिग्रहकारकमनुष्ठानं कर्मशरीरतापकत्वात् सम्यक्तपः ।
  29. अनशन- ऊनोदरिका-वृत्तिसंक्षेप रसपरित्याग कायक्लेश प्रतिसंलीनता बाह्यम् ।
  30. आहारपरिहारोऽनशनम् ।
  31. अल्पत्वमूनोदरिका ।
  32. नानाभिग्रहाद् वृत्त्यवरोधो वृत्तिसंक्षेपः ।
  33. विकृतेर्वर्जनं रसपरित्यागः ।
  34. कायोत्सर्गाद्यासनकरणं कायक्लेशः ।
  35. इन्द्रियादीनां बाह्यविषयेभ्यः प्रतिसंहरणं प्रतिसंलीनता।
  36. प्रायश्चित्त-विनय-वैयावृत्त्य-स्वाध्याय-ध्यान व्युत्सर्गाश्चाभ्यन्तरम् ।
  37. अतिचारविशुद्धये प्रयत्नः प्रायश्चित्तम् ।
  38. अनाशातना बहुमानकरणं विनयः ।
  39. परार्थव्यापृतिर्वैयावृत्त्यम् ।
  40. श्रुतस्याध्ययनं स्वाध्यायः ।
  41. एकाग्रे मनःसन्निवेशनं योगनिरोधो वा ध्यानम् ।
  42. धर्म्यशुक्ले ।
  43. आज्ञा-अपाय-विपाक-संस्थान-विचयाय धर्म्यम् ।
  44. पृथक्त्ववितर्कसविचार एकत्ववितर्काऽविचार-सूक्ष्मक्रिया- प्रतिपाति समुच्छिन्न-क्रियाऽनिवृत्तीनि शुक्लम् ।
  45. नार्त्तरौद्रे तपः ।
  46. प्रियाप्रियवियोगसंयोगे चिन्तनमार्त्तम् ।
  47. वेदनायां व्याकुलत्वं निदानं च ।
  48. हिंसा अनृत-स्तेय-विषयसंरक्षणार्थं रौद्रम् ।
  49. शरीरकषायादेः परित्यागो व्युत्सर्गः ।

इति मोक्षमार्गनिर्णयात्मकः षष्ठः प्रकाशः

Sources

Title: Jain Siddhant Deepika
Language:
Sanskrit
Author:
Acharya Tulsi
Publisher: Jain Vishwa Bharti, Ladnun
Digital Publishing: Sushil Bafana
Audio Book Voice: Dr. Manju Nahata

Share this page on:
Page glossary
Some texts contain  footnotes  and  glossary  entries. To distinguish between them, the links have different colors.
  1. सम्यग्दर्शन
Page statistics
This page has been viewed 376 times.
© 1997-2024 HereNow4U, Version 4.56
Home
About
Contact us
Disclaimer
Social Networking

HN4U Deutsche Version
Today's Counter: