Jain Siddhant Deepika (Text and Audio): Chapter 7: Saptamah Prakash

Published: 09.03.2023

सप्तमः प्रकाशः

  1. कर्मविशुद्धेर्मार्गणापेक्षाणि चतुर्दशजीवस्थानानि ।
  2. मिथ्यादृष्टि - सास्वादनसम्यग्दृष्टि सम्यग् मिथ्यादृष्टि-विरतसम्यग् दृष्टि-देश- विरत प्रमत्त अप्रमत्तसंयत-निवृत्ति-अनिवृत्तिबादर-सूक्ष्मसम्पराय-उपशान्त-क्षीणमोह-सयोगि-अयोगिकेवलिनः ।
  3. तत्त्वं मिथ्या श्रद्दधानो मिथ्यादृष्टिः ।
  4. सम्यक्त्वाच्च्यवमानः सास्वादनसम्यग्दृष्टिः ।
  5. मिश्रित-सम्यग्मिथ्यारुचिः सम्यग् मिथ्यादृष्टिः ।
  6. असंयतस्तत्त्वं श्रद्दधानश्च अविरत  सम्यग् दृष्टिः ।
  7. संयताऽसंयतो देशविरतः ।
  8. प्रमादयुक्तः सर्वविरतः प्रमत्तसंयतः।
  9. प्रमादवियुक्तो ध्यानलीनः अप्रमत्तसंयतः ।
  10. निवृत्तियुक्तो बादरकषायो निवृत्तिबादरः ।
  11. अनिवृत्तियुक्तो बादरकषायः अनिवृत्तिबादरः ।
  12. उपशमकः क्षपकश्च ।
  13. सत्संज्वलनसूक्ष्मलोभांशः सूक्ष्मसम्परायः ।
  14. सर्वथोपशान्त क्षीणकषायौ उपशान्तक्षीणमोहौ ।
  15. क्षीणघात्यचतुष्टयः प्रवृत्तिमान् सयोगिकेवली ।
  16. शैलेशीं प्रतिपन्नः अयोगिकेवली ।
  17. स्थितिरेषामनेकधा ।
  18. सम्यग् दृष्टि-देशविरत-सर्वविरत- अनन्तवियोजक-दर्शन-मोहक्षपक-उपशमक-उपशान्तमोह-क्षपक-क्षीणमोह-जिनानां क्रमशोऽसंख्येयगुणा निर्जरा ।
  19. सूक्ष्मसम्परायान्तः साम्परायिको बन्धः ।
  20. ईर्यापथिको वीतरागस्य ।
  21. अबन्धोऽयोगी ।
  22. अकेवली छद्मस्थः ।
  23. चतुर्दशापि शरीरिणाम् ।
  24. सुखदुःखानुभवसाधनं शरीरम् ।
  25. औदारिक-वैक्रिय-आहारक- तैजस-कार्मणानि ।
  26. उत्तरोत्तरं सूक्ष्माणि पुद्गलपरिमाणतश्चासंख्येयगुणानि ।
  27. तैजसकार्मणे त्वनन्तगुणे ।
  28. एते चान्तरालगतावपि ।
  29. वेदनादिभिरेकीभावेनात्मप्रदेशानां तत इतः प्रक्षेपणं  समुद्घातः ।
  30. वेदना- कषाय-मारणान्तिक-वैक्रिय- आहारक-तैजस-केवलिनः ।
  31. औपपातिक चरमशरीर- उत्तमपुरुष- असंख्येयवर्षायुषो निरुपक्रमायुषः ।
  32. शेषाः सोपक्रमायुषोऽपि ।
  33. अध्यवसान-निमित्त-आहार- वेदना-पराघात-स्पर्श-उच्छ्वास- निःश्वासा उपक्रमकारणानि ।

इति जीवस्थानस्वरूपनिर्णयात्मकः सप्तमः प्रकाशः

Sources

Title: Jain Siddhant Deepika
Language:
Sanskrit
Author:
Acharya Tulsi
Publisher: Jain Vishwa Bharti, Ladnun
Digital Publishing: Sushil Bafana
Audio Book Voice: Dr. Manju Nahata

Share this page on:
Page glossary
Some texts contain  footnotes  and  glossary  entries. To distinguish between them, the links have different colors.
  1. निर्जरा
Page statistics
This page has been viewed 448 times.
© 1997-2024 HereNow4U, Version 4.56
Home
About
Contact us
Disclaimer
Social Networking

HN4U Deutsche Version
Today's Counter: