Jain Siddhant Deepika (Text and Audio): Chapter 2: Dviteey Prakash

Published: 04.03.2023

द्वितीयः प्रकाशः

  1. जीवाऽजीव-पुण्य-पापाश्रव-संवर-निर्जरा-बन्ध-मोक्षास्तत्त्वम् ।
  2. उपयोगलक्षणो जीवः ।
  3. चेतनाव्यापारः उपयोगः ।
  4. साकारोऽनाकारश्च ।
  5. पर्यायग्राहित्वा ज्ञानं साकारः ।
  6. ध्रौव्यग्राहित्वाद् दर्शनमनाकारः ।
  7. मति श्रुतावधि-मनः पर्याय- केवलानि ज्ञानम् ।
  8. इन्द्रियमनोनिबन्धनं मतिः ।
  9. श्रुतनिश्रितेतरे ।
  10. अवग्रहेहावायधारणाभेदात् श्रुतनिश्रिता चतुर्धा ।
  11. इन्द्रियार्थयोगे दर्शनानन्तरं सामान्यग्रहणमवग्रहः ।
  12. व्यञ्जनार्थयोः ।
  13. अवगृहीतार्थविशेषविमर्शनं अमुकेन भाव्यमिति प्रत्यय ईहा ।
  14. ईहितविशेषनिर्णयः अमुक एवेत्यवायः ।
  15. स एव दृढतमावस्थापन्नो धारणा ।
  16. औत्पत्तिकी वैनयिकी-कार्मिकी पारिणामिकी इति चतस्रो बुद्धय अश्रुतनिश्रिताः ।
  17. अदृष्टाश्रुतार्थग्राहिणी औत्पत्तिकी ।
  18. विनयसमुत्था वैनयिकी ।
  19. कर्मसमुत्था कार्मिकी ।
  20. परिणामजनिता पारिणामिकी ।
  21. जातिस्मृतिरपि मतेर्भेदः ।
  22. व्यवसायात्मकं ज्ञानं बुद्धिः ।
  23. मनोवाक्कायप्रवर्तकं निश्चयात्मकं ज्ञानं चित्तम् ।
  24. द्रव्यश्रुतानुसारि परप्रत्यायनक्षमं श्रुतम् ।
  25. अक्षर-संज्ञि-सम्यक् सादि सपर्यवसित गमिकाङ्गप्रविष्टानि सप्रतिपक्षाणि ।
  26. आत्ममात्रापेक्षं रूपिद्रव्यगोचरमवधिः ।
  27. भवप्रत्ययो देवनारकाणाम् ।
  28. क्षयोपशमनिमित्तश्च शेषाणाम् ।
  29. अनुगामि-अननुगामि वर्धमान हीयमान प्रतिपाति-अप्रतिपाति-भेदादसौ षोढा ।
  30. मनोद्रव्यपर्यायप्रकाशि मनः पर्यायः ।
  31. ऋजु-विपुलमती ।
  32. विशुद्धि क्षेत्र-स्वामि-विषयभेदादवधेर्भिन्नः ।
  33. निखिलद्रव्यपर्यायसाक्षात्कारि केवलम् ।
  34. मति-श्रुत-विभंगा मिथ्यात्वसाहचर्यादज्ञानम् ।
  35. चक्षुरचक्षुरवधिकेवलानि दर्शनम् ।
  36. प्रतिनियतविषयग्राहि इन्द्रियम् ।
  37. स्पर्शन-रसन-प्राण-चक्षुः श्रोत्राणि ।
  38. द्रव्यभावभेदानि ।
  39. निर्वृत्त्युपकरणे द्रव्येन्द्रियम् ।
  40. लब्ध्युपयोगौ भावेन्द्रियम् ।
  41. स्पर्श-रस-गन्ध-रूप-शब्दास्तद्विषयाः ।
  42. सर्वार्थग्राहि त्रैकालिकं मनः ।
  43. कर्मणामुदयविलयजनितः चेतनापरिणामो भावः ।
  44. परिणमनं वा ।
  45. औपशमिक क्षायिक क्षायोपशमिका भावाः स्वरूपं जीवस्य ।
  46. औदयिकपारिणामिकावपि ।
  47. मोहकर्मणो वेद्याभाव उपशमः ।
  48. निर्मूलनाशः क्षयः ।
  49. घातिकर्मणो विपाकवेद्याभावः क्षयोपशमः ।
  50. वेद्यावस्था उदयः ।
  51. स्वस्वभावे परिणमनं परिणामः ।
  52. औपशमिकस्य सम्यक्त्वचारित्रे ।
  53. क्षायिकस्य ज्ञान-दर्शन- सम्यक्त्व चारित्र- अप्रतिहत- वीर्यादयः ।
  54. क्षायोपशमिकस्य ज्ञानाऽज्ञान-दर्शन-दृष्टि- चारित्र-संयमासंयमवीर्यादयः ।
  55. औदयिकस्य अज्ञान-निद्रा- सुख-दुःख-आश्रव-वेद-आयुर्गति-जाति-शरीर- लेश्या-गोत्र- प्रतिहतवीर्यत्व-छद्मस्थ-असिद्धत्वादयः ।
  56. इति जीवस्वरूपनिर्णयात्मको द्वितीयः प्रकाशः
Sources

Title: Jain Siddhant Deepika
Language:
Sanskrit
Author:
Acharya Tulsi
Publisher: Jain Vishwa Bharti, Ladnun
Digital Publishing: Sushil Bafana
Audio Book Voice: Dr. Manju Nahata

Share this page on:
Page glossary
Some texts contain  footnotes  and  glossary  entries. To distinguish between them, the links have different colors.
  1. सम्यक्त्व
Page statistics
This page has been viewed 409 times.
© 1997-2024 HereNow4U, Version 4.56
Home
About
Contact us
Disclaimer
Social Networking

HN4U Deutsche Version
Today's Counter: