Jain Siddhant Deepika (Text and Audio): Chapter 3: Trtiya Prakash

Published: 05.03.2023

तृतीयः प्रकाशः

  1. जीवा द्विधा ।
  2. संसारिणः सिद्धाश्च ।
  3. संसारिणस्त्रसस्थावराः ।
  4. पृथिवी - अप्-तेजो-वायु-वनस्पतिकायिका एकेन्द्रियाः स्थावराः ।
  5. द्वीन्द्रियादयस्त्रसाः ।
  6. समनस्काऽमनस्काश्च ।
  7. नारकदेवा गर्भजतिर्यङ्मनुष्याश्च समनस्काः ।
  8. अन्येऽमनस्काः ।
  9. पर्याप्ताऽपर्याप्तादयोऽपि ।
  10. भवारम्भे पौद्गलिकसामर्थ्यनिर्माणं पर्याप्तिः ।
  11. आहार- शरीर-इन्द्रिय-उच्छ्वासनिः श्वास- भाषा-मनांसि ।
  12. जीवनशक्तिः प्राणाः ।
  13. इन्द्रियबलोच्छ्वासनिः श्वासाऽऽयूंषि ।
  14. गर्भोपपातसंमूर्च्छनानि जन्म ।
  15. जराय्वण्डपोतजानां गर्भः ।
  16. देवनारकाणामुपपातः ।
  17. शेषाणां संमूर्च्छनम् ।
  18. सचित्ताऽचित्त-संवृत-विवृतास्तन्मिश्राश्च योनयः ।
  19. अचेतनः अजीवः ।
  20. धर्माधर्माकाशकालपुद्गलास्तद्भेदाः ।
  21. इति- जीवाजीवभेदनिर्णयात्मकस्तृतीयः प्रकाशः
Sources

Title: Jain Siddhant Deepika
Language:
Sanskrit
Author:
Acharya Tulsi
Publisher: Jain Vishwa Bharti, Ladnun
Digital Publishing: Sushil Bafana
Audio Book Voice: Dr. Manju Nahata

Share this page on:
Page statistics
This page has been viewed 426 times.
© 1997-2024 HereNow4U, Version 4.56
Home
About
Contact us
Disclaimer
Social Networking

HN4U Deutsche Version
Today's Counter: