Jain Siddhant Deepika (Text and Audio): Chapter 5: Panchamah Prakash

Published: 07.03.2023

पंचमः प्रकाशः

  1. आश्रवनिरोधः संवरः ।
  2. सम्यक्त्वं विरतिरप्रमादोऽकषायोऽयोगश्चेति पञ्चधा ।
  3. तत्त्वे तत्त्वश्रद्धा सम्यक्त्वम् ।
  4. औपशमिक- क्षायिक-क्षायोपशमिक-सास्वादन-वेदकानि ।
  5. निसर्गजं निमित्तजञ्च ।
  6. द्वयञ्च करणापेक्षमपि ।
  7. परिणामविशेषः करणम् ।
  8. यथाप्रवृत्त्यपूर्वाऽनिवृत्तिभेदात् त्रिधा ।
  9. शम-संवेग - निर्वेदानुकम्पाऽऽस्तिक्यानि तल्लक्षणम् ।
  10. शंका-कांक्षा-विचिकित्सा-परपाषण्डप्रशंसासंस्तवास्तदतिचारः ।
  11. निःशंकित-निष्कांक्षित-निर्विचिकित्सित-अमृढदृष्टि-उपबृंहण-स्थिरीकरण-वात्सल्य-प्रभावनास्तदाचारः ।
  12. सावद्यवृत्तिप्रत्याख्यानं विरतिः ।
  13. अध्यात्मलीनता अप्रमादः ।
  14. क्रोधाद्यभावोऽकषायः ।
  15. अप्रकम्पोऽयोगः ।
  16. तपसा कर्मविच्छेदादात्मनैर्मल्यं निर्जरा ।
  17. उपचारात्तपोपी ।
  18. सकामाऽकामा च ।
  19. कृत्स्नकर्मक्षयादात्मनः स्वरूपावस्थानं मोक्षः ।
  20. अनावृत-ज्ञान-दर्शनो निर्धूतमोहो विदेह आत्मा सिद्धः ।
  21. सिद्धो बुद्धो मुक्तः परमात्मा परमेश्वर ईश्वर इत्यनर्थान्तरम् ।
  22. ते चानन्ता अपुनरावृत्तयश्च ।
  23. तीर्थातीर्थ-तीर्थंकरातीर्थंकर-स्वान्य-गृह-स्त्रीपुंनपुंसकलिंग-प्रत्येकबुद्ध-स्वयं-बुद्ध-बुद्धबोधितैकानेकभेदात् पञ्चदशधा ।
  24. मुक्त्यनन्तरमेकसमयाद् ऊर्ध्वं गच्छन्त्यालोकान्तात् ।
  25. ईषत्प्राग्भारा पृथ्वी तन्निवासः ।
  26. तत्त्वद्वय्यां नवतत्त्वावतारः ।
  27. रूपिणो जीवाः ।
  28. अजीवा रूपिणोऽपि ।
  29. इति संवरनिर्जरामोक्षस्वरूपनिर्णयात्मकः पंचमः प्रकाशः

Sources

Title: Jain Siddhant Deepika
Language:
Sanskrit
Author:
Acharya Tulsi
Publisher: Jain Vishwa Bharti, Ladnun
Digital Publishing: Sushil Bafana
Audio Book Voice: Dr. Manju Nahata

Share this page on:
Page glossary
Some texts contain  footnotes  and  glossary  entries. To distinguish between them, the links have different colors.
  1. निर्जरा
Page statistics
This page has been viewed 385 times.
© 1997-2024 HereNow4U, Version 4.56
Home
About
Contact us
Disclaimer
Social Networking

HN4U Deutsche Version
Today's Counter: