Jain Siddhant Deepika (Text and Audio): Chapter 1: Pratham Prakash

Published: 03.03.2023

प्रथमः प्रकाशः

  1. धर्माधर्माकाश-पुद्गल-जीवास्तिकाया द्रव्याणि।
  2. कालश्च।
  3. गुणपर्यायाश्रयो द्रव्यम्।
  4. गत्यसाधारणसहायो धर्मः।
  5. स्थित्यसाधारणसहायोऽधर्म:।
  6. अवगाहलक्षण आकाशः।
  7. लोकोऽलोकश्च।
  8. षड्द्रव्यात्मको लोकः।
  9. जीवपुद्गलयोर्विविधसंयोगैः स विविधरूपः।
  10. संयोगश्चापश्चानुपूर्विकः।
  11. कर्मशरीरोपग्रहरूपेण त्रिविधः।
  12. चतुर्धा तत्स्थितिः।
  13. शेषद्रव्यशून्यमाकाशमलोकः।
  14. स्पर्शरसगन्धवर्णवान् ग्रहणगुणः पुद्गलः।
  15. शब्द-बन्ध-सौक्षम्य-स्थौल्य-संस्थान-भेद-तमश्छायातपोद्योत-प्रभावांश्च ।
  16. परमाणुः स्कन्धश्च ।
  17. अविभाज्यः परमाणुः।
  18. तदेकीभावः स्कन्धः।
  19. तद् भेदसंघाताभ्यामपि ।
  20. स्निग्धरूक्षत्वाद् अजघन्यगुणानाम् ।
  21. द्व्यधिकादिगुणत्वे सदृशानाम् ।
  22. कालः समयादि: ।
  23. वर्तनापरिणामक्रियापरत्वापरत्वादिभिर्लक्ष्यः ।
  24. आद्यत्रीणि एकद्रव्याणि अगतिकानि ।
  25. असंख्येयाः प्रदेशा धर्माधर्मलोकाकाशैकजीवानाम् ।
  26. अलोकस्यानन्ताः ।
  27. संख्येयाऽसंख्येयाश्च पुद्गलानाम् ।
  28. न परमाणोः ।
  29. कालोऽप्रदेशी ।
  30. बुद्धिकल्पितो वस्त्वंशो देशः ।
  31. निरंशः प्रदेशः ।
  32. कृत्स्नलोकेऽवगाहो धर्माधर्मयोः ।
  33. एकप्रदेशादिषु विकल्प्यः पुद्गलानाम् ।
  34. असंख्येयभागादिषु जीवानाम् ।
  35. कालः समयक्षेत्रवर्ती ।
  36. सहभावी धर्मो गुणः ।
  37. सामान्यो विशेषश्च ।
  38. अस्तित्व-वस्तुत्व-द्रव्यत्व-प्रमेयत्व-प्रदेशवत्त्व-अगुरूलघु-त्वादिः सामान्यः ।
  39. गतिस्थित्यवगाहवर्तनाहेतुत्व-स्पर्शरसगन्धवर्ण-ज्ञानदर्शन-सुख-वीर्य-चेतनत्वाचेतनत्व-मूर्त्तत्वाऽमूर्त्तत्वादिर्विशेषः ।
  40. पूर्वोत्तराकारपरित्यागादानं पर्यायः ।
  41. व्यञ्जनार्थभेदेन स्वभाव-विभावभेदेन चास्य द्वैविध्यम् ।
  42. स्थूलः कालान्तरस्थायी शब्दानां संकेतविषयो व्यञ्जनपर्यायः ।
  43. सूक्ष्मो वर्तमानवर्ती अर्थपरिणामः अर्थपर्यायः ।
  44. परनिमित्तानपेक्षः स्वभावपर्यायः ।
  45. परनिमित्तापेक्षो विभावपर्यायः ।
  46. एकत्व-पृथक्त्व-संख्या-संस्थान-संयोग-विभागास्तल्लक्षणम्
Sources

Title: Jain Siddhant Deepika
Language:
Sanskrit
Author:
Acharya Tulsi
Publisher: Jain Vishwa Bharti, Ladnun
Digital Publishing: Sushil Bafana
Audio Book Voice: Dr. Manju Nahata

Share this page on:
Page statistics
This page has been viewed 532 times.
© 1997-2024 HereNow4U, Version 4.56
Home
About
Contact us
Disclaimer
Social Networking

HN4U Deutsche Version
Today's Counter: